________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः १२०१ (B)
पव्वावणा सपक्खे, परिपुच्छा दोसवज्जिए दिक्खा । एवं सुत्तं अफलं सुत्तनिवातो उ कारणिओ ॥ २९१४॥
यस्मादेते दोषास्तस्मात् सपक्षे प्रव्राजना कर्त्तव्या। तद्यथा-पुरुषाः संयतैः प्रव्राजनीयाः, स्त्रियः संयतीभिः संयतैरनुज्ञाताभिः, सा च दीक्षा परिपृच्छ्य किं प्रव्रजसि? इति पृष्टा यद्यभ्युपगच्छति तदा दातव्या, परं दोषवर्जिते 'अट्ठारसपुरिसेसु' इत्येवमादिदोषरहिते। अत्र पर आह-यद्येतत् तत्त्वं तर्हि सूत्रमफलम्, सूत्रे परपक्षेऽपि दीक्षाया अभ्यनुज्ञानात्तस्याश्चासम्भवात्। आचार्यः प्राह-सूत्रनिपातः कारणिकः कारणमपेक्ष्येदं सूत्रं प्रवृत्तमिति भावः ॥ २९१३॥ २९१४॥
किं तत्कारणम् ? अत आहकारणमेगमडंब, खंतियमादीसु मेलणा होति ।
२९१०-२९१५ पव्वजमब्भुवगते, अप्पाणे चउव्विहा तुलणा ॥ २९१५॥
प्रवाजने कारणमशिवादिलक्षणमधिकृत्य कोऽपि साधुरेकाकी जातः, कथमप्येकमडम्बे गतः, : एकमडम्बं नाम यस्य निवेशस्य सर्वासु दिक्षु च नास्ति कोऽप्यन्यो ग्रामो नगरं वा।||१२०१ (B) तस्मिन्नेकमडम्बे गतः। तत्र च संयत्यो न विद्यन्ते । अथ च तस्मिन्नेकमडम्बे तस्य साधोर्माता
गाथा
हेतवः
For Private And Personal Use Only