SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२०० (B) प्रव्राजयति निर्ग्रन्थीं तदा तस्य प्रायश्चित्तं चतुर्गुरु, आज्ञादयश्च दोषास्तथा मिथ्यात्वं तीर्थकरवचनातिक्रमात्। तथा स्तैन्यार्थं शङ्कायां किमयं प्रव्राज्य हरिष्यति उत धर्मश्रद्धया प्रव्राजयति? इत्येवंरूपायां यत् प्रायश्चित्तं चतुर्लघुकम्, उपलक्षणमेतद् नि:शङ्कितमेष प्रव्राज्य हरिष्यतीति निश्चये यत् प्रायश्चित्तं चत्वारो गुरुकाः। तथा मैथुने शङ्किते यथा किं मैथुनार्थमेष प्रव्राजयति उत धर्मश्रद्धया? इति यत् प्रायश्चित्तं चतुर्गुरुकं, नूनमेष मैथुनार्थं प्रव्राजयतीत्येवं निःशङ्किते यन्मूलं प्रायश्चित्तं, यच्च ग्राहणे कञ्चकादिसङ्घाटिप्रावरणोपदेशदाने कक्षान्तरादि दृष्ट्वाऽऽत्मपरोभयसमुत्थदोषैः ब्रह्मचर्यविराधनं तन्निमित्तमपि प्रायश्चित्तमापाद्यते ॥ २९१० ।। एतदेवोत्तरार्द्धं व्याचिख्यासुराहतेणट्ठमेहुणे वा, हरति अयं संकऽसंकिए सोही । गाथा २९१०-२९१५ कक्खादभिक्खदंसण-मथक्कातोभये दोसा ॥ २९११॥ प्रवाजने अयं प्रव्राजनाव्याजेन हरतीत्येवं शङ्कायामशङ्किते वा स्तन्यार्थे तथा मैथुनशङ्कायाम-शङ्किते || हेतवः वा मैथुने या शोधिः प्रायश्चित्तं तदापद्यते। तथा कक्षादीनामथक्कमप्रस्तावमभीक्ष्णदर्शने १२०० (B) आत्मोभयदोषा आत्मदोषा उभयदोषा उपलक्षणमेतत्, परदोषाश्च ये, तानपि प्राप्नोति ॥ २९११॥ | For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy