________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२०० (A)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वसूत्रेभ्य: सम्भोगे प्रवृत्ते प्रस्तुतसूत्राभिहिता उपस्थाप्य सम्भुज्यते । अथवा शिष्यत्वमाचार्यत्वं च प्रकृतमस्ति ततः शिष्याचार्यत्वे प्रकृतेऽनेनापि सूत्रद्वयेनेदमुच्यते- अन्यस्यार्थाय [ दीक्षेयां ] निर्ग्रन्थीं दीक्षयन्ति नात्मनोऽर्थायेति ॥ २९०९ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्यान कल्पते निर्ग्रन्थीमात्मनोऽर्थाय प्रव्राजयितुं सामायिकारोपणतो मुण्डापयितुं लोचकारापणतः शिक्षापयितुमासेवनाशिक्षाग्रहणशिक्षाप्रदानतः उपस्थापयितुमुपस्थापनाकरणतः संम्भोक्तुं षण्णां सम्भोगानामन्यतमेन यथायोगसम्भोगेन संवस्तुं, तथा तस्याम् इत्वरां दिशमाचार्यलक्षणामनुदिशं वा उपाध्यायादिरूपामुद्देष्टुं वा धारयितुं वा । कल्पते निर्ग्रन्थानां निर्ग्रन्थीमन्येषामर्थाय इत्यादि प्राग्वत् नवरमन्येषामित्याचार्यस्योपाध्यायस्य प्रवर्त्तिन्या वा अर्थाय, एते एतस्या उपग्रहं करिष्यन्तीत्यभिप्रायेण । शेषं सुगमम् ॥ अत्र भाष्यम्अण्णट्टमप्पणो वा, पव्वावणे चउगुरुं च आदी । मिच्छत्त तेणसंकट्ठ मेहुणे गाहणे जं च ॥ २९१० ॥
शिष्यस्य मे सर्वकार्येषु सहायिका भविष्यतीत्येवमन्यार्थम् एवमात्मनो वाऽर्थाय यदि
१. सूत्रे संवसित्तए वा, संभुजित्तए वा, इति, अत्र क्रमभेद इति ज्ञेयम् ॥
For Private And Personal Use Only
गाथा
|२९१०-२९१५ प्रवाजने हेतव:
१२०० (A)