SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . व्यवहारसूत्रम् सप्तम उद्देशकः १९९ (A) 1 तासां तिसृणामपि स्वयं पृच्छने भण्डनदोषा भवन्ति ये भणिताः पूर्वं कल्पाध्ययने प्रथमोद्देशके वगडासूत्रे, ते च इमे-तासां स्वयं प्रच्छने त्रिषु स्थानेषु भण्डनम्। तानि च त्रीणि स्थानान्यमूनि-आत्मनो द्वौ गच्छौ संयतवर्ग: संयतीवर्गश्च, तृतीयोऽन्याचार्यसत्काः संयता: संयत्यश्च एष एको वर्गो गण्यते। भण्डनं पुनरेवं जायते-ताः संयत्यः परकीयरूपाः पृष्टाः सत्यो ब्रूयुर्यथा 'जानीमो यद् दुःखापिता इहलोकसहायया निजप्रवर्त्तिन्या' एवमुक्ते । संयतास्ताभिः सह कलहं कुर्युः। संयतीनामपि परस्परं रण्डाराटिर्भवेत्। तत्रान्यगच्छवर्तिनः साधवः पराचार्येण समं परसंयतैः समं परसंयतीभिश्च समं राटिं विदध्यः। यत एवं दोषास्तस्मात् द्वावपि तौ संयतीवर्गावात्मन आत्मन आचार्यस्य कथयतः। यदि पुनस्ताः सूत्र ५-६ संयत्यः स्वयमेव विष्वक् सम्भोगं कुर्वन्ति तदा तासां प्रायश्चित्तं चत्वारो गुरुकाः । कस्माद् ? गाथा इति चेद्,अत-आह-चापल्यतः चपलतादोषेण कलहः परस्परं भूयादिति हेतोः ॥ २९०७ ॥ ७२९०४-२९०९ स्वार्थाय पत्तेयं भूयत्थं, दोण्हं पि गणहरा तुलेऊणं । प्रव्रज्यानिषेधः मिलिउं तग्गुणदोसे, परिक्खिउं सुत्तनिद्देसो ॥ २९०८॥ ११९९ (A) यत एवं दोषास्तस्मादात्मन आचार्यस्य कथनीयम्, तौ च गणधरौ द्वयोरपि संयतीवर्गयोः For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy