________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
११९८ (B)
www. kobatirth.org
संयतीवर्गौ सद्भावं पृच्छन्ति । केवलं यदि ता एकगुरुप्रतिबद्धाः, अन्यथा दोषः ॥२९०५ ॥
तथा चाह
जड़ ता उ एगमेगं, अहवावि परं गुरुं वएज्जा हि ।
अहवा वी परगुरुतो, पवतिणी तीसु वी गुरुगा ॥ २९०६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि यकाभिः प्रतिसेवितं शय्यातरपिण्डादि, यकाभिश्च प्रतिसेवितं ज्ञात्वा गुरुभ्यः कथितं ता यदि एकमेकमाचार्यमाश्रिताः । अथवा आत्मीया अपि सत्यः शय्यातरपिण्डाद्यासेविन्यः परं गुरुं कुतश्चित् कारणात् व्रजेयुः प्रतिपन्नाः । यदि वा सा प्रवर्त्तिनी यत्संयतीभिः शय्यातरपिण्डाद्यासेवितं सा परगुरुत उपसम्पदं प्रतिपन्ना । एतासु तिसृष्वपि यद्याचार्यः स्वयं पृच्छति 'कोऽत्र भूतार्थः' इति, तदा प्रायश्चित्तं चत्वारो गुरुकाः ॥ २९०६ ॥
किं कारणम् ? इति चेद्, अत आह—
भंडणदोसा हुंती, वगडासुत्तं जे भणियपुव्वं । सयमवि य वीसु करणे, गुरुगा चावल्लया कलहो ॥ २९०७ ॥
For Private And Personal Use Only
܀܀܀܀܀܀
सूत्र ५-६ गाथा
|२९०४-२९०९ स्वार्थाय प्रव्रज्यानिषेधः
११९८ (B)