________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः ११९६ (A)|
सर्वेषामागतानां त्रीणि दिनानि यावत् प्राघूर्णकं करणीयम्। अथ सर्वेषां कर्तुं न शक्नुवन्ति ततः सर्वेषामभावे बाल-वृद्धानां कर्त्तव्यम्। तथा ये प्राणूंणकानां तरुणास्ते स्वग्रामे हिण्डन्ते। ये तु वास्तव्यास्तरुणास्ते उद्भ्रामकभिक्षाचर्यया बहिर्गामे हिण्डन्ते ॥२८९९ ॥
संघाडगसंजोगो, आगंतुकभद्दएतरे बाहिं । आगंतुका व बाहिं, वत्थव्वगभद्दए हिंडे ॥ २९०० ॥
यदि ग्रामवास्तव्या जना आगन्तुकभद्रकास्तदा प्राघूर्णकानामेकैको वास्तव्येन समं | सङ्घाटकेन हिण्डते, इयरे बाहिं ति ये वास्तव्यानां सङ्घाटकसंयोगा उद्वरितास्ते बहिर्गामे उद्भ्रामकभिक्षाचर्यया व्रजन्ति। अथ ग्रामवास्तव्या जना वास्तव्यभद्रकास्ततो वास्तव्यानामेकैकः प्राघूर्णकेन समं हिण्डते। ये तु प्राघूर्णकानां सङ्घाटकसंयोगा अधिकास्ते बहिरुभ्रामकभिक्षाचर्यया व्रजन्ति। उपधिचिन्तायामपि परस्परमालोचनायां दत्तायां यो गीतार्थेनोपधिरुत्पादितः स परिभुज्यते, यस्त्वगीतार्थेनोत्पादितस्तस्य परित्यागः करणीयः ॥ २९०० ॥
सूत्रम्- जाओ निग्गंथीओ वा निग्गंथा वा संभोइया सिया, नो णं कप्पड़ निग्गंथीणं पच्चक्खं पाडिएक्कं संभोइयं विसंभोगं करेत्तए। कप्पइ णं पारोक्खं पाडिएक्वं
सूत्र ४
गाथा २९००-२९०३
निर्ग्रन्थ्या विसम्भोगकरणे विधिः
४११९६ (A)
For Private And Personal Use Only