________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
-
व्यवहार
सूत्रम् सप्तम उद्देशक:
११९५ (A)
साम्प्रतमेनामेव विषमपदव्याख्यानतो व्याख्यानयति, तत्र 'ओहे ण' इति पदं व्याचिख्यासुराह
जइ उ तवं आवन्नो, जो भिन्नो अहव होज नावन्नो । तहियं ओहालोयण, तेण परेणं विभागो उ ॥ २८९६ ॥
वास्तव्यैर्भिक्षावेलायामतिशयेन पर्याप्ते लब्धे यदि प्राघूर्णकाः समागच्छन्ति, तदा यदि प्राघूर्णकास्तपोहँ प्रायश्चित्तमापन्ना यावदद्यापि भिन्ना न भवन्ति छेदादिकमप्राप्ता इत्यर्थः । अथवा तपोर्हमपि प्रायश्चित्तं नापन्नस्तदा ओघालोचनया आलोच्य तैः समं मण्डल्यां समुद्दिशन्ति। ततः समुद्देशानन्तरं परतो विभागाऽऽलोचनयाऽऽलोच्य प्रायश्चित्तं प्रतिपद्यन्ते। अथ छेदादिकमापन्नः ततो मण्डल्या उत्कृष्य दीयते ॥ २८९६ ॥
अथ भिक्षावेलायां न प्राप्ताः किन्त्वनागाढायां पश्चिमायां पौरुष्यां प्राप्ताः, तत्र विधिमाहअहवा भुत्तुव्वरियं, संखडिमन्नेहिं वा वि कज्जेहिं । तं मुक्कं पत्तेयं, इमे य पत्ता तहिं होजा ॥ २८९७॥
गाथा २८९४-२८९९ प्राघुर्णकसामाचारी
४११९५ (A)
For Private And Personal Use Only