SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः ११९४ (B) खुड्डगविगिट्ठगामे, उण्हं अवरण्हे तेण तु पगे वि । पक्खित्तं मोत्तूणं, निक्खिवि उक्खित्तमोहेणं ॥ २८९५ ॥ क्षुल्लको ग्रामो यत्र प्राप्तो वर्त्तते तत्र पर्याप्तं न भविष्यतीति हेतोर्यदि वा विकृष्टमन्तरं ततः कृतभिक्षाका न प्राप्स्यामो अथवाऽपराह्ने व्रजतामतीवोष्णं परितापस्ततः एतैः कारणैः प्रगेपि प्रातरपि प्रविशेत् तत्र च नैषेधिकीशब्दं श्रुत्वा यन्मुखे प्रक्षिप्तं तन्मुक्त्वा तद् गिलनीयमित्यर्थः । यद् उत्क्षिप्तं लम्बने वर्त्तते तत्पात्रे निक्षिप्य वास्तव्यैरभ्युत्थातव्यम्। अत्र यदि प्राघूर्णकाः कृतपर्याप्ताः ततस्तैर्वक्तव्यंः 'मा अभ्युत्तिष्ठत वयं कृतपर्याप्ताः समागताः । यदि वा यस्य कस्याप्यर्थः स तैः समं भुङ्क्ते। अथ कदाचित् प्राघूर्णका न कृतपर्याप्ता भवेयुस्तदा | सर्वं तेषां दत्त्वा वास्तव्या अन्यद् गृह्णन्ति । अथ वास्तव्यैरतिशयेन पर्याप्ते लब्धे ते प्राघूर्णकाः | २८९४-२८९९ समागतास्ततो यदि तपोहँ प्रायश्चित्तमापन्नास्तदा ओघालोचनया आलोच्य तैः समं भुञ्जते। प्राघुर्णक सामाचारी एष नियुक्तिगाथासमासार्थः ॥ २८९५ ।। ११९४ (B) गाथा १. तद्भुक्त्वा -मु.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy