________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
दानादिभिः संसर्गिः दानादिसंसर्गिः। तस्यां सकत् कृतायां स प्रतिनिषिध्यते-'आर्य! कस्मात् पार्श्वस्थादिभिः समं संसर्गि करोषि?' एवं प्रतिषिद्धे यदि स आवर्त्तते तदा स साम्भोगिक एव, केवलं तस्मिन्नावृत्ते प्रायश्चित्तं लघुको मासः, द्वितीयमपि वारं यदि करोति तदापि मासलघु, अथ तृतीयमपि वारं करोति आवर्त्तते च तदाऽपि मासलघु, सद्भावतस्त्रिकृत्व आवृत्ते लघुको मासः। तेन परमिति ततस्तृतीयात् वारात् परं यदि चतुर्थं वारं संसर्गि करोति तदा सोऽशुद्ध इति तस्य प्रायश्चित्तं गुरुको मासः ॥ २८८० ॥
११९० (A)
एतदेव स्पष्टतरमाहतिक्खुत्तो मासलहू, आउट्टे गुरुगो मासो तेण परं ।
अविसुद्धे तं वीसुं, करेंति जो भुंजती गुरुगा ॥ २८८१ ।। त्रिकृत्वः आवृत्ते प्रायश्चित्तं लघुको मासः। ततः परं भूयः संसर्गिकरणे सोऽविशुद्ध इति गुरुको मासः, तं च विष्वक् विसम्भोगं करोति, योऽपि तं सम्भुङ्क्ते तस्यापि प्रायश्चित्तं चत्वारो गुरुकाः ॥ २८८१ ॥
गाथा २८८१-२८८६ पार्श्वस्थादिसंसर्गे प्रायश्चित्तं
पृथक्व्यवहारः
.११९० (A)
For Private And Personal Use Only