________________
Shri Mahavir Jain Aradhana Kendra
mads
व्यवहार
सूत्रम्
सप्तम
उद्देश :
१९८९ (A)
www. kobatirth.org
प्रतिज्ञातमेव निर्वाहयति
पडिसेहे पडिसेहो, असंविग्गे दाणमादितिक्खुत्तो ।
अविसुद्धे चउगरुया, दूरे साहारणं काउं ॥ २८७७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिषिध्यते 'पार्श्वस्थत्वादिकं न कल्पते' इति निवार्यते इति प्रतिषेधः, असंविग्नः पार्श्वस्थादिः भण्यते तस्मिन् प्रतिषेधे असंविग्ने दानादेर्दानग्रहणसंसर्ग्यादेः प्रतिषेधः त्रिकृत्व इति । यदि कथमपि दानादि करोति तदा एकं द्वौ त्रीन् वारान् वार्यते एकैकस्मिंश्च वारे प्रायश्चित्तं मासलघु । वारत्रयवारणे यदि भूयस्तैः सह दानादि करोति तदा सो अविशुद्ध इति विसम्भोगः क्रियते । विसम्भोगिकमपि साम्भोगिकं करोति तस्य प्रायश्चित्तं चत्वारो गुरुकाः । दूरे साहारणं काउं ति, दूरे गतानां यदि केऽपि पृच्छन्ति यथा-सन्त्यस्माकं केचित् साम्भोगिकास्तत्र देशे इति तदा साधारणं वक्तव्यम्। यथा तदा साम्भोगिका अभवन् इदानीं पुनर्न जानीमः किमनुपालयन्ति साम्भोगिकत्वं किं वा नेति एष निर्युक्तिगाथासमासार्थः ॥ २८७७ ॥
साम्प्रतमेनामेव भाष्यकारो विवरीषुराह
For Private And Personal Use Only
܀܀܀܀
गाथा
| २८७३-२८८० सम्भोगविसम्भोगयोग्य स्वरूपम्
| ११८९ (A)