________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
.X
सूत्रम्
सप्तम उद्देशकः
११८८ (B)
यत एवं परोक्षे विसम्भोगकरणे भण्डनदोषस्तस्मात् कल्पते निर्ग्रन्थानां प्रत्यक्षं साम्भोगिक विसम्भोगं कर्तुम्। अस्यैव सूत्रस्य व्याख्यानमाह
सत्तमए ववहारे, अवराहविभावियस्स साहुस्स । आउट्टमणाउट्टे, पच्चक्खेणं विसंभोगे ॥ २८७५ ।।
अस्मिन् सप्तमे व्यवहारे व्यवहारस्योद्देशके अपराधेन विभावितः परिभावितो यः साधुः स यदि प्रत्यावर्त्तते तदा तस्यापराधविभावितस्य साधोरावृत्तस्य विसम्भोगो न क्रियते, प्रायश्चित्तं पुनर्दीयते । अथ नावर्त्तते ततो वारत्रयं भण्यते-आवर्तस्व महानुभाव ! एवमुक्तोऽपि
गाथा यदि नाऽऽवर्त्तते तदा तस्मिन्ननावृत्ते प्रत्यक्षेण प्रत्यक्षतया विसम्भोगः क्रियते ॥२८७५ ॥
२८७३-२८८०
सम्भोगसंभोगऽभिसंबंधेण आगते केरिसेण सह णेओ ।
विसम्भोगकेरिसएण विसंभोगो भण्णइ सुणसु समासेणं ॥ २८७६ ।।
योग्यस्वरूपम् एवमभिसम्बन्धेन सम्भोगे आगते शिष्यः पृच्छति-कीदृशेन सह सम्भोगो ज्ञेयः? ||११८८ (B) R कीदृशेन सह विसम्भोगः? सूरिराह-भण्यते एतत् समासेन, तच्च भण्यमानं शृणु ॥ २८७६ ॥ 3
For Private And Personal Use Only