________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
११८७ (A)
तं कज्जतो अकज्जे, वा सेवियं जइ वि तं अकज्जेण । न हु कीरइ पारोक्खं, सहसा इति भंडणं होज्जा ॥ २८७०॥
यस्मादेते दोषास्तस्मात् कार्यतः कारणेन अकार्ये वा कारणाभावे वा यद्यपि सेवितं तत् शय्यातरपिण्डादिकं तथाऽप्यकार्येण एवमेव परोक्षं सहसा इति एवं विसम्भोगः न क्रियते। मा परस्परं द्वयोर्गणयोर्भण्डनं भूयादिति हेतोः ।। २८७० ॥
कथं विवेकः कर्त्तव्यः? इत्यत आहनिस्संकियं च काउं, आसंकनिवेयणाए तहिं गमणं । सुद्धेहि कारणमणाभोगजाणया दप्पतो दोण्हं ॥ २८७१॥
तैः प्राघूर्णकैस्ते प्रष्टव्याः को युष्माकं शय्यातरः? कथं वा एष शय्यातरो न भवति?|| एवं निःशङ्कितं कृत्वा, अथ लज्जया न पृष्टास्ततो न निश्चय इति एवमाशङ्कानिवेदनायां कृतायां यस्याऽऽचार्यस्य कथितं तेन प्रेषितस्य सङ्घाटस्य तत्र गमनं, तेन च सङ्घाटकेन | गत्वा यत् तैः कथितं तत् ते प्रष्टव्याः। ततस्ते गृहपरिवर्त्तादि यथातथ्यं कथयन्ति। ततः
गाथा २८६७-२८७२ प्राधुर्णकादिभिः
शङ्कायां पृच्छना कार्या
११८७ (A)
For Private And Personal Use Only