________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः ११८५ (B)
܂
पातितेषु च हरितेषु ते साधवः कारणेन स्थिताः । अथवा पूर्वसंस्थितानां चैत्यवन्दनार्थं गणे निर्गते पश्चात् वसतिपालस्य प्रसह्य बलात्कारेणोपलिप्ता कृता, हरितानि च पातितानि, अत्रावसरे प्राघूर्णकाः समागतास्ते च वसतिं दृष्ट्वा चिन्तयन्ति- प्रतिदिवसमुपलिप्यते शय्या, ततो गत्वा तैरात्मीयस्याचार्यस्य कथितं तेन च यद्यविचार्य विसम्भोगः क्रियते तदा अत्र सूत्रोपनिपातः ॥२८६५॥ 'दीपे चे'त्यस्य व्याख्यानम्छिण्णाणि वा हरियाणि पविट्ठो दीवएण वा । कयकजस्स पम्हुढे सो वि जाणे दिणे दिणे ॥ २८६६॥
यस्यां शय्यायां संयताः स्थितास्तत्र शय्यातरः केनापि कारणेन प्रदोषे दीपकेन सह ||२८६१-२८६६ प्रविष्टस्ततो येन कार्येण समागतस्तत्कार्यं कृत्वा निर्गतः दीपस्तत्रैव विस्मृतः । तत्र च तस्मिन्
विष्वक्सम्मोगदिवसे साम्भोगिकाः प्राघूर्णका समागमन् स च प्राघूर्णकबृहत्तरः शय्यातरस्य कृतकार्यस्य । विस्मृते दीपे जानाति दिने दिने वसतौ दीपः क्रियते। एवं ज्ञात्वा गुरोः कथितं, स | ११८५ (B) चाऽविचिन्त्य विसम्भोगं कृतवान्। अत्राप्यधिकृतसूत्रस्योपनिपातः ॥ २८६६ ॥
गाथा
* सामाचारी
For Private And Personal Use Only