________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१९८४ (B)
www. kobatirth.org
-
नवयोर्गृहयोः कपोतानां प्रविशनं, ततो द्वयोरपि गृहस्वामिनोर्युगपत् नैमित्तिकस्य पृच्छा, नैमित्तिको भणति — अन्योऽन्यस्य गृहं प्रविशताम् । तौ च प्रविष्टौ अन्यदा आदेशानां प्राघूर्णकानामागमः । ततो वास्तव्यैर्जम्बूगृहिकस्य वटगृहिकगृहं प्रविष्टस्य गृहात् प्रथमालिका आनीता, तां लज्जया भुक्त्वा ततो निर्गत्य गुरुसमीपं गत्वा गुरोः कथनं, स यद्यविचार्य विष्वक्संभोगं करोति तदा अत्र सूत्रमापतितं द्रष्टव्यम् । अत्र विचारो यदि तावित्वरं गृहपरिवर्त्तं कृतवन्तौ तदा स जम्बूगृहिकोऽशय्यातर एव । अथ यावत्कथिकस्तदा जम्बूहिक एव शय्यातरः || २८६१ || २८६२ ॥
'धम्मिय त्ति' [गा. २८६०] अस्य व्याख्यानम्
धम्मितो देउलं तस्स, पालेई जइभद्दतो ।
सोय संवड्ढियं तत्थ, लद्धुं देज्जा जईण उ ॥ २८६३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तस्य शय्यातरस्य किञ्चित् देवकुलं तत् धार्मिकः पालयति, स च यतीनां भद्रकः, ततः संवर्द्धितमग्रकूरं तस्मिन् शय्यातरगृहे लब्ध्वा साधूनामानीय ददाति । अत्रापि तथैव घूर्णकामनं धार्मिकात् प्रथमालिकानयनमित्यादि सर्वं तथैव वाच्यम् ॥ २८६३॥
For Private And Personal Use Only
गाथा
२८६१-२८६६ विष्वक्सम्मोगसामाचारी
१९८४ (B)