________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशः
१९८४ (A)
www. kobatirth.org
भवेत् ? नैमित्तिको वदति - 'वटगृहिको जम्बूगृहिकगृहमधितिष्ठतु जम्बूगृहिको वटगृहिकगृह, ततः कतिपयानि दिनानि स्थित्वा पश्चान्निजनिजगृहे गच्छे (म्ये) याताम्, ' तौ परस्परगृहे सञ्चरित च। अथान्यदाऽन्यस्मात् गच्छात्प्राघूर्णकाः समागताः । ततो वास्तव्यैः जम्बूगृहिकस्य वटगृहिकगृहं प्रविष्टस्य गृहात् प्रथमालिकामानीय तेषां प्राघूर्णकानां दत्ता । तैः शय्यातरपिण्डं मन्यमानैरुपरोधवशादप्रीत्या भुक्ता । ततस्ते प्राघूर्णका निर्गत्य आत्मीयस्याचार्यस्य समीपं गत्वा आलोचयन्ति ते अस्माकं साम्भोगिकाः शय्यातरपिण्डं भुञ्जन्ते । अस्माभिः कथमप्युपरोधवशादप्रीत्या प्रथमालिका भुक्ता । एवं श्रुत्वा आचार्योऽपि अविचिन्त्य यदि विसम्भोगं करोति । अत्रैतदधिकृतं सूत्रं पतति । तथा चाह भाष्यकारः
नव घर कवोयपविसण, दोण्हं नेमित्तिजुगव पुच्छा य । अन्नोन्नस्स घराइं, पविसह नेमित्तितो भाइ ॥ २८६१ ॥ आदेसागम पढमा, भोत्तु लज्जाए गंतु गुरुकहणं । सो जड़ करेज्ज वीसुं, संभोगं इत्थ सुत्तं तु ॥ २८६२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
गाथा
|२८६१-२८६६ विष्वक्सम्मोग
सामाचारी
११८४ (A)