________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः ११८३ (B)
ज्ञात्वा इतरोऽनुतप्यते, एष मम दोषेण तपति तस्मात् प्रत्याययामि यथा असदेतत् यदहं शय्यातरपिण्डं सेवितवान्। अथ सत् तदासौ चिन्तयति मा मम दोषेणैष तप्यतु तस्मात् मिथ्यादुष्कृतं करोमि । एवं संविग्ने तप्यति यदनुतपनं तत् प्रतितपनमिति। तदेवं भाष्यकृता विषमाणि सूत्राक्षराणि विवृतानि॥ २८५९ ॥
सम्प्रति नियुक्त्यवसरःसागारिए गिहा निग्गए य वडघरिय जंबुधरिए य । धम्मिय गुलवाणियए, हरितोलित्ते य दीवे य ॥ २८६०॥
सागारिके शय्यातरे गृहान्निर्गते वटगृहिके जम्बूगृहिके च असदभ्याख्यानेन विसम्भोगः कृतः। इयमक्षरघटना, भावार्थस्त्वयम्- कस्मिन्नगरे आचार्यस्य वटगृहिकः शय्यातरः, तस्मिन्नेव नगरे अन्यो जम्बूगृहिको गृहस्थोऽस्ति, ताभ्यां च वटगृहिक-जम्बूगृहिकाभ्यामात्मीयमात्मीयं गृहं कारितं, तयोश्च निर्मापितयोर्द्व योर पि गृह योः कपोता: प्रविष्टास्ततोऽमङ्गलमिति मन्यमानौ तौ नैमित्तिकं पृच्छतः कथमेतस्य दुर्निमित्तस्य व्याघातो
x
सूत्र ३
गाथा २८५७-२८६०
परोक्षे | विसम्भोग
करणनिषेधः
x.
X.
११८३ (B)
For Private And Personal Use Only