________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः | ११८३ (A)
अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
ये निर्ग्रन्था निर्ग्रन्थ्यश्च साम्भोगिकाः स्युस्तेषां नो णमिति वाक्यालङ्कारे, कल्पते परोक्षे प्रत्येकं विसम्भोगिकं विसाम्भोगं कर्तुं, कल्पते प्रत्यक्षं प्रत्येकं साम्भोगिकं | विसाम्भोगिकं कर्तुम् । यत्रैव परस्परं पश्येत् तत्रैव एवं वदेत् अहं णमिति पूर्ववत्, IX आह-'आर्य ! त्वया सार्द्धमस्मिन कारणे प्रत्यक्षं प्रत्येकं साम्भोगिकं विसाम्भोगं | करोमि' एवमुक्ते यदि स प्रतितप्यते 'मिथ्यादुष्कृतं न भूय एवं करिष्यामि' एवं सति से तस्य न कल्पते त्रयाणां प्रत्यक्षं प्रत्येकं विसम्भोगिकं विसम्भोगं कर्तुम् अथ स न प्रतितप्यते एवं सति से तस्य कल्पते त्रयाणां प्रत्यक्षं प्रत्येकं विसम्भोगिकं विसम्भोगं
सूत्र ३ कर्तुमिति सूत्राक्षरार्थः ॥ अधुना भाष्यकारः प्राहसंभोगो पुव्वुत्तो पत्तेयं पुण वयंति पडियक्कं ।
विसम्भोगतप्पंते समणुण्णे पडितप्पण माऽणुतप्पंत ॥ २८५९॥
करणनिषेधः सम्भोगः पूर्वं निशीथाध्ययने उक्तः । पडियक्कं पुनर्वदन्ति प्रत्येकं यो विसम्भोगं
११८३ (A) करोति स तप्यते यथा-एतेन नाम शय्यातरपिण्ड: प्रतिसेवितोऽहो कष्टम्! एवं तपन्तमितरो
गाथा
२८५७-२८६०
परोक्षे
For Private And Personal Use Only