________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देश :
११८२ (A)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अचक्षुष्कान्ता गुर्वादिप्रतिस्पर्द्धता वा प्रवर्त्तिन्या एतानि यानि चत्वारि कारणानि, एतेषामेकतरत् कारणमधिकृत्याऽन्यसाम्भोगिकीनामसाम्भोगिकीनां च दीयते, अथवा या अध्वनिर्गतादिका दुहितरं वा संस्मरन्ति परचक्रागमनेन देशभङ्गे वा शिक्षां वा मृगयमाणा एता याश्चतस्रस्तासामेकतरामन्यसाम्भोगिकीनामसाम्भोगिकीनां वा दातव्या ॥ २८५६ ॥
यद्यसाम्भोगिक्योऽपि नेच्छन्ति तदा किं कर्त्तव्यम् ? अत आह— सेहित्ति नियं ठाणं एवं सुत्तम्मि जं तु भणियमिणं । एवं च कयपयत्ता ताहे सुयत्ता उ ते सुद्धा ॥ २८५७॥
एवमसाम्भोगिकीनामप्यनिच्छायां यत् सूत्रे भणितं से हि त्ति नियं ठाणमिति तत् कर्त्तव्यमस्याम्। अथ एवं कृतप्रयत्ना अपि यदा संयत्यो नेच्छन्ति तदा ते तां मुञ्चन्तोऽपि शुद्धाः ॥ २८५७ ॥
सूत्रम् - जे निग्गंथा य निग्गंथीओ य संभोइया सिया, नो णं कप्पइ निग्गंथाणं पारोक्खं पाडिएकं संभोइयं विसंभोगं करेत्तए । कप्पड़ णं पच्चक्खं पाडिएक्कं संभोइयं विसंभोगं करेत्तए।
For Private And Personal Use Only
सूत्र ३ गाथा २८५७-२८६० परोक्षे
* विसम्भोग
* करणनिषेधः ११८२ (A)
܀܀܀