________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
सप्तम
उद्देशकः ११८० (B)
तान्येवम मकारादीनि कारणान्याहपासत्थिममत्तेणं, पगती वेसा अचक्खुकंता वा । गुरुगणतण्णीयस्स व, निच्छंती पडिसिद्धीतो ॥ २८५२॥ ओमाणं णे काहिति, संखलिबद्धा उ ताओ सव्वातो । मा होहिति सागरियं, सीयंति वा उजयं नेच्छे ॥ २८५३॥
यस्याः सा शिष्या तया सह तासां मैत्री, ततो मा सा पार्श्वस्था अस्माकमुपरि मन्यु कार्षीरिति पार्श्वस्थाममत्वेन नेच्छन्ति, अथवा सा कर्मानुभावतः प्रायः सर्वजनस्य द्वेष्या, यदि वा पूर्वभवानुभावत एकस्याः प्रवर्तिन्या अचक्षुष्कान्ता, अथवा सा प्रवर्तिनी आत्मीयस्याचार्यस्य विषये केनापि कारणेन कुपिता वर्तते, यदि वा गणस्य गच्छस्योपरि, एतच्चाचार्यो न जानाति यद्वा तस्याः संयत्या यो निजकवर्गस्तस्य विषये प्रवर्त्तिन्याः प्रतिसिद्धिः प्रतिस्पर्द्धता विद्यते, अथवा ताः सर्वा अपि संयत्यः शङ्खलाबद्धाः परस्परं स्वजनाः ततो नोऽस्माकमपमानमेषा करिष्यति तस्मान्मा सागारिकं भवतु, यदि वा ताः सीदन्ति तच्चाचार्यो
गाथा २८५०-२८५६
संयत्याः गणप्रवेशे सामाचारी
११८० (B)
For Private And Personal Use Only