________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
११७९ (B)
कल्पते निर्ग्रन्थानां निर्ग्रन्थीरापृच्छ्य अनापृच्छ्य वा निर्ग्रन्थीमन्यगणादागतां क्षताचारां सबलाचारां संक्लिष्टाचारचरित्रां तस्मात् स्थानादालोच्य प्रतिक्राम्य प्रायश्चित्तं प्रतिपाद्य प्रष्टुं वा वाचयितुं वा उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा तस्या इत्वरां दिशमाचार्यलक्षणामनुदिशमुपाध्यायलक्षणां प्रवर्तिनीलक्षणां च उद्देष्टुं वा स्वयं वा धारयितुं वा तां च निर्ग्रन्थ्यः साम्भोगिक्योऽसाम्भोगिक्यो वा नेच्छेयुस्तर्हि सेहि सैव नियं ठाणं निजमात्मीयस्थानं प्रतिगमयतामपि ताः परित्यजतामपीति भावः निर्दोषत्वं प्रतिसिद्धिरेव, न कश्चनापि दोष इति सूत्रसङ्क्षेपार्थः। सम्प्रति भाष्यविस्तरः
सूत्र २ संविग्गाणुवसंता, आभीरी दिक्खिया य इतरेहिं । तत्थारंभं दटुं, विपरिणमतितरे व दिट्ठा उ ॥ २८४९॥
काचिदाभीरी संविग्नानां समीपे धर्मं श्रुत्वा उपशान्ता, ते च संविग्ना अन्यत विहता |* सामाचारी इतरे असंविग्नाः समागताः, तैः सा आभीरी दीक्षिता, तेषां चासंविग्नानामारम्भं रन्धनादिकं
११७९ (B) दृष्ट्वा सा विपरिणमति विपरिणामे च तस्या अभिप्रायो जातः 'तेषामेव संविग्नानां
गाथा २८४४-२८४९ निर्ग्रन्थ्या गणप्रवेश
For Private And Personal Use Only