________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
सप्तम उद्देशकः
११७७ (B)|
अविहाडाहं अव्वो, मा मं पस्सेज नीयवग्गो वा । तं दाणिं चेइयाई, वंदह रक्खामहं वसहिं ॥ २८४२॥
पाक्षिकादिषु आर्यिकाश्चैत्यवन्दनार्थं प्रस्थिता अवलोक्य सा शैक्षी ब्रूते 'अव्वो' इति | सम्बोधने 'अहमविघाटा अप्रकटा वर्ते, यदि वा मां प्रव्रजितां निजवर्गः पश्येत् ततः स व्रताच्च्यावयेत् तस्मादिदानीं यूयं चैत्यानि वन्दध्वमहं वसतिं रक्षामि' एवमुक्ते एकया तरुण्या सह प्रतिश्रयपालिका स्थापिता॥ २८४२॥
ततो गतास्वार्यिकासु सा शैक्षी तां तरुणीमार्यिकां ब्रूतेउव्वण्णो सो धणियं, तुज्झ धवो जो तया सि नितहो । वभिचारि वा अन्नो, इति नाते विगिचणा तीसे ॥ २८४३॥
तव धवो भर्ता यस्तदा निस्तृष्ण आसीत् स इदानीं धणियमत्यर्थं तव विषये उव्वण्णो || उत्कण्ठितः, अथवा अन्यः कोऽपि व्यभिचारी पारदारिक: संयती प्रार्थयमानस्तां प्रव्रज्याव्याजेन | व्यापारितवान् । ततः सा एवं विरहं ज्ञात्वा ब्रूयात् एको वरतरुणो रूपादिगुणोपेतस्तवानुगोऽनुरूपो
११७७ (B) वर्त्तते, स तव समागममिच्छति । एवं तस्या भावे ज्ञाते विगिञ्चना परित्यागः कर्त्तव्यः ॥ २८४३॥
गाथा २८३६-२८४३
प्रव्रज्यार्थमागतायाः
परीक्षा यतना च
For Private And Personal Use Only