________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HAR
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः ११७७ (A)
उच्चारभिक्खे अदुवा विहारे, थेरीहिं जुत्तं गणिणी उ पेसे । थेरीण असती तु अतव्वया हि, ठावेंति एमेव उवस्सयम्मि ॥ २८४०॥ |
यदा सा ब्रूते नाहं तादृशीति तदा तस्या उत्परिचित्तेन लिङ्गमात्रं समर्पितं तत उच्चारभूमौ भिक्षायामथवा विहारे गणिनी प्रवर्तिनी तां स्थविराभिर्युक्तां प्रेषयेत् स्थविराणामभावे अतद्वयोभिस्तस्याः सकाशात् या या क्षुल्लकतरास्तरुण्यः ताभिः सममुच्चारभूम्यादिषु प्रेषयति। एवमेव प्रथमतः स्थविराभिः, तासामभावे असदृशवयोभिरित्यर्थः, उपाश्रये स्थापयन्ति ॥ २८४० ।।
कइयविया उ पविट्ठा, अच्छई छिटुं तहिं निलिच्छंती ।। विरहालंभे अहवा, भणाइ इणमो तहिं सा उ ॥ २८४१॥
कैतविका कैतववती प्रविष्टा सती सा तत्र छिद्रं निरीक्षमाणा तिष्ठति। अथवा | विरहाऽलाभे तत्र सा इदं भणति ॥ २८४१ ॥
किं तद्भणति? इत्यत आह
गाथा २८३६-२८४३
प्रव्रज्यार्थमागतायाः
परीक्षा यतना च
११७७ (A)
For Private And Personal Use Only