________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः ११७६ (B)
न हु कम्पति दुई वा, (चो )चारी वा अम्ह काइ इति वुत्ते । गुरुणा नाया मि अहं, वएज नाहंति वा बूया ॥ २८३८ ॥
'न हि नैव कल्पते दूती चारी वा अस्माकं काचित् दीक्षयितुम्' इति गुरुणोक्ते | ज्ञाताऽहमिति विचिन्त्य व्रजेत् यदि वा ब्रूयान्नाहं तादृशीति । एतेन 'पूर्वदोषान् चोदयतीति' व्याख्यातम् ॥ २८३८॥
सम्प्रति 'रक्खंति नाउ से भावमिति व्याख्येयं तत्र कथं तस्या भावं लक्षयन्तीत्यत आह
अतिसयरहिया थेरा, भावं इत्थीण नाउ दुन्नेयं । रक्खेहेयं उप्पर, लक्खेह य से अभिप्पायं ॥ २८३९॥
अतिशयरहिता अपि स्थविराः स्त्रीणां दुर्जेयं भावमिङ्गिताकारकुशलतया ज्ञात्वा वदन्ति | एतामुत्परां यत्नेन रक्षयत लक्षयत वा से तस्या अभिप्रायम् ॥२८३९॥ कथं लक्षयन्ति? इत्यत आह
गाथा २८३६-२८४३
प्रव्रज्यार्थमागतायाः
परीक्षा यतना च
.
.
११७६ (B)
For Private And Personal Use Only