________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः ११७५ (B)
प्राप्ता पौरुष्यादिकं प्रथमपौरुष्यादिकं गुरवे निवेदनीया, तथा छाता बुभुक्षिता उद्वाता परिश्रान्ता तथा उषिता एतदपि संयत्यो गुरूणां कथयन्ति । गुरुश्च पूर्वदोषान् चोदयति कथयति तथा से तस्या दीक्षिताया भावमभिप्रायं दुष्टं ज्ञात्वा गुरवो रक्षयन्ति। एष द्वारगाथासक्षेपार्थः ॥ २८३४॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः ‘प्राप्ता पौरुष्यादिकमि'ति विवृणोति जा जीए होति पत्ता, नयंति तं तीए पोरिसीए उ । छाउव्वायनिमित्तं, बिइया ततियाए चरमाए ॥ २८३५॥
या यस्यां पौरुष्यां संयतीनां पार्श्वे प्राप्ता भवति तां तस्यां पौरुष्यां संयत्यो गुरुसमीपं | नयन्ति। अथ सा च्छाता उद्वाता वा तर्हि तन्निमित्तं तेन कारणेन स्यात् द्वितीयस्यां तृतीयस्यां चरमायां वा गुरुसमीपं नीयते । नीत्वा च छातादिकं सर्वं कथ्यते। एतेन च्छातोद्वातेति व्याख्यातम् ॥ २८३५॥
गाथा २८२९-२८३५ प्रव्रज्यार्थमागतां गुरुपार्श्वे नयनम्
११७५ (B)
साम्प्रतम् 'उषिता'इति भावयति
For Private And Personal Use Only