________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः ११७५ (A)
सा परिव्राजिका सिद्धपुत्रिका वा यदि संयतीनामुत्तिष्ठति ततः सा प्रवर्तिन्या वक्तव्यायदि धर्मं कर्तुं समुत्थितासि तर्हि सम्प्रति व्रजामो गुरूणां पार्श्व, यतो भव्यमभव्यं वा ते विदन्ति, वयं तु किं जानीम: ? ॥ २८३२ ॥
गुरवः कथं जानन्ति? इति चेद्,अत आहजो जेण अभिप्पाएण, एती तं भो गुरू वियाणेति । पारगमपारगं ति य, लक्खणतो दिस्स जाणंति ॥ २८३३॥
यो येनाभिप्रायेण समागच्छति तत् भो गुरवो विजानन्ति । तथा प्रव्रज्यां ग्रहीतुकामं दृष्ट्वा लक्षणत एतत् जानन्ति यथा एष प्रव्रज्याया पारगो भविष्यत्येषो अपारग इति ॥ २८३३ ॥
सूत्र १
गाथा २८२९-२८३५ प्रव्रज्यार्थ
मागतां गुरुपार्श्वे नयनम्
तथा
११७५ (A)
पत्ता पोरिसिमादी, छाया उव्वाय वुत्थ साहति । चोदेति पुव्वदोसे, रक्खंती नाउ से भावं ॥ २८३४॥ दारगाहा।
For Private And Personal Use Only