________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
११७४ (A)
ब्रूते-संदिशत यन् मया कर्त्तव्यम् । स प्राह-एतां संयती तथा कुरुत यथा प्रतिभज्यते । ततः | सा दीक्षालक्षेण दीक्षाव्याजेनाह-प्रव्रजिष्यामीत्येवंरूपेण तां संयतीमुपागता॥ २८२८॥
अहवा वि अण्णो कोई, रूवगुणम्माइतो सुविहियाए । चरगाए पक्खेवं, करेज्ज छिदं अविंदंतो ॥ २८२९॥
अथवा कोऽप्यन्योऽविरतः सुविहितायाः संयत्या रूपगुणेनोन्मादित उन्मादं । ग्राहितश्छिद्रमविन्दन् अलभमानश्चरिकया दानसन्मानाभ्यामाराधितया प्रक्षेपमुपचारं कुर्यात् ॥ २८२९ ॥ सिद्धी वि कावि एवं, अहवा उक्कोसणंतगा भिन्ना ।
होहं वीसंभेउं, अगहियगहिए य लिंगम्मि ॥ २८३०॥ 21 अथवा चरिकाया अभावे चरिकया प्रयोजनाऽसिद्धौ काऽपि सिद्ध्यपि सिद्धपुत्रिकाऽपि
एवं दानसन्मानाभ्यां गृहीत्वा प्रयुज्येत ततोऽनापृच्छया ग्रहणेऽजानत्यस्तास्तमप्युपचारं गृह्णीयुः। तथा च सति महान् दोषः । अथवा सा सिद्धपुत्रिका तासां संयतीनामुत्कृष्टानि [अ] नन्तकानि वस्त्राणि दृष्ट्वा भिन्ना वस्त्रग्रहणलोभेन चित्तभेदमुपगता भविष्याम्यहं प्रवजितेति
सूत्र १
गाथा २८२९-२८३५ प्रव्रज्यार्थमागतां गुरुपाचे नयनम्
+
११७४ (A)
For Private And Personal Use Only