________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशक:
११७० (A)
www. kobatirth.org
10
ये निर्ग्रन्था निर्ग्रन्थ्यश्च साम्भोगिकाः स्युस्तेषां मध्ये निर्ग्रन्थीनां न कल्पते निर्ग्रन्थाननापृच्छ्य निर्ग्रन्थीमन्यस्माद् गणादागतां क्षताचारां भिन्नाचारां [ यावत् ] संक्लिष्टाचाराम्। अमीषां शब्दानामर्थः प्राग्वत् । यस्मिन् स्थाने सीदति स्म तस्य स्थानस्य s अनालोच्य अप्रतिक्रम्य प्रायश्चित्तमप्रतिपाद्य प्रष्टं वा वाचयितुं वा उपस्थापयितुं वा षण्णां 5 सम्भोगानामन्यतमेन सम्भोगेन संभोक्तुं वा संवस्तुं वा तस्य इत्वरं दिशमाचार्यलक्षणा-मनुदिशं वा उपाध्यायप्रवर्त्तिनीलक्षणामुद्देष्टुं वा अनुज्ञातुं नापि तस्या स्वयं धारयितुम् इत्येष प्रथमसूत्राक्षरार्थः ॥ सम्प्रति भाष्यविस्तरः
सुत्तं धम्मकहनिमित्तमादि घेत्तूण निग्गया गच्छा ।
पनवण चेइयाणं, पूयं काऊण आगमणं ॥ २८१५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कस्याप्याचार्यस्य शिष्या, सा सूत्रमुपलक्षणमेतदर्थं च गृहीत्वा तथा धर्मकथाः पठित्वा निमित्तं वा अतीतानागतादिकं गृहीत्वा, आदिशब्दाद्विद्यामन्त्रचूर्णयोगांश्च ज्ञात्वा गच्छान्निर्गता । ततः सा निमित्तादिबलेन धर्मकथया इभ्यादीनामीप्सिता जाता, ततः संस्तवेन तानावृत्त्य चैत्यायतनप्रज्ञापनातश्चैत्यायतनं कारितवती, विपुलं तत्र सत्कारसमुदयमनुभवति । अन्यदा
१. चारचित्ताम् - पु. प्रे. ॥
For Private And Personal Use Only
सूत्र १ गाथा |२८१५-२८२१ निर्ग्रन्थानां
* सामाचारी
| ११७० (A)