________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहारसूत्रम्
षष्ठ
उद्देशकः ११६८ (A)
'नो कप्पति निग्गंथाण वा निग्गंथीण वा निगंथं अन्नगणातो आगतं 'इत्यादि। अस्याक्षरगमनिका भाष्यविस्तरश्च प्राग्वत् द्रष्टव्यः। तथा चाह
एसेव गमो नियमा, निग्गंथाणं पि होति नायव्वो । नवरं पुण नाणत्तं, अणवटुप्पो य पारंची ॥ २८१२॥
एष एव चानन्तरोदितो गमः प्रकारो निर्ग्रन्थानामप्यन्यगणादागच्छतां भवति नियमात् ज्ञातव्यः। नवरं पुनः प्रायश्चित्ते नानात्वम्, अनवस्थाप्यं पाराञ्चितं च । इयमत्र भावनायेन प्रव्राजितः स क्षुल्लको भिक्षुर्वा, स चेत् संयते प्रेषिते न मुत्कलयति तदा तस्य प्रायश्चित्तं चतुर्लघु, ततो वृषभादिक्रमेण प्रायश्चित्तं पूर्वप्रकारेण वर्द्धमानं तावद् द्रष्टव्यं यावत् सङ्घन सङ्गस्थविरेण वा भणनेऽप्यमुत्कलनेऽनवस्थाप्यं, तथा तस्य साधुना भणनेऽप्यमुत्कलने यधुपाध्यायस्तं प्रव्राजकं न भणति यथा 'विसर्जय एनमिति' तदा तस्य प्रायश्चित्तं चतुर्लघु, आचार्यस्याभणने चतुर्गुरु। तथा उपाध्यायः साधुप्रेषणे यदि न मुत्कलयति तदा चतुर्लघु ततो वृषभादिक्रमेण पूर्ववत् वर्धमानं प्रायश्चित्तं तावद् द्रष्टव्यं यावत् सङ्घातिक्रमेऽनवस्थाप्यम्। आचार्यस्य तु चतुर्गुरुकादारभ्य तावद्वक्तव्यं यावत् सङ्घातिक्रमे पाराञ्चितम्। अत्रापि निर्ग्रन्थ्या
गाथा २८१२-२८१३
११६८ (A)
For Private And Personal Use Only