________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहार
सूत्रम्
षष्ठ उद्देशकः ११६६ (B)
प्रायश्चित्तम्, आचार्ये प्रथमतो भण्यन्ते गुरुकाश्चत्वारस्ततस्तदादिकं वृषभादिक्रमेण प्रवर्द्धमानं तावदवसेयं यावत्पर्यन्ते चरमं पाराञ्चितमिति इयमक्षरयोजना। भावार्थस्त्वयं-संयत्याः प्रेषणे प्रवर्तिन्या विसर्जितायामविसर्जितायां वा यधुपाध्यायो न विसर्जयति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः। ततोऽन्येन साधुना गीतार्थेन स उपाध्यायो भण्यते, तथाऽप्यमुत्कलने चतुर्गुरुः। ततो यः साधुरुपाध्यायस्थान प्राप्तस्तेन स प्रज्ञाप्यते, तथाऽप्यविसर्जने षड्लघु । तदनन्तरमाचार्यस्थान प्राप्तः साधुः प्रेष्यते, तेनाप्यविसर्जने षड् गुरुः । ततः कुलेन कुलस्थविरेण वा भाव(भण)नीयस्तत्राविसर्जने छेदः । गणेन गणस्थविरेण वा भणनेऽप्यविसर्जने मूलम्। ड्वेन सङ्घस्थविरेण प्रज्ञापनायामप्यमुत्कलनेऽनवस्थाप्यम् ॥ २८०७॥
तथा संयत्या भणने प्रवर्त्तिन्या विसर्जितायामविसर्जितायां वा यद्याचार्यों न विसर्जयति तदा तस्य प्रायश्चित्तं चतुर्गुरुकम्। तदनन्तरं तस्य समीपे वृषभः प्रेष्यते तस्याप्यमुत्कलने षड् लघु तत उपाध्यायस्थानप्राप्तेन साधुना भणनेऽप्यविसर्जने षड्गुरु, तदनन्तरमाचार्यस्थानप्राप्तसाधुः प्रेषणीयः, तस्याप्यमुत्कलने छेदः, कुलेन कुलस्थविरेण भणनेऽप्यविसर्जने मूलं, गणेन गणस्थविरेण वा अनवस्थाप्यं, सङ्घन सङ्घस्थविरेण वा पाराञ्चितम्, सङ्घातिक्रमे तस्या गणादपहरणं सङ्घन ॥ २८०७ ।।
सूत्र - ११
गाथा २८०७-२८११ गणप्रवेशसामाचारी
११६६ (B)
For Private And Personal Use Only