________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
षष्ठ
उद्देशकः
१९६६ (A)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सङ्घस्थविरेण वा सा भणनीया, तथाऽपि चेन्न विसर्जयति तर्हि प्रायश्चित्तं तस्या मूलम् । अन्यच्च यदि सा सङ्घमपक्रामति ततस्तस्याः सकाशात् हृत्वा से तस्या अन्यो गणो दीयते, अन्यस्याः प्रवर्त्तिन्याः सा समर्प्यते इत्यर्थः ॥ २८०५ ॥ २८०६ ॥
एमेव उवज्झाए, अविसज्जते हवंति लहुगाई | भते गुरुगादी, वसभादी जाव नवमं तु ॥ २८०७॥ एमेव य आयरिए, अविसज्यंते हवंति गुरुगा उ। वसभादिएहि भणिए, छल्ल्हुगादी उ जा चरिमे ॥ २८०८ ॥
संयत्या भणितया स्वयं प्रवर्त्तिन्या तस्यामविसर्जितायां यदि तस्या उपाध्यायो न तां भणति यथा-विसर्जयैनां साध्वीमिति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । उपाध्यायातिक्रमणे यद्याचार्यो न भणति यथा - इमां विसर्जयेति तदा तस्यापि प्रायश्चित्तं चतुर्लघु । एवं तावत् प्रवर्त्तिन्यामविसर्जयन्त्यामुक्तम्, इदानीं आचार्यस्योपाध्यायस्य वा अविसर्जयतः प्रतिपाद्यते । एवमेव अनेनैव प्रकारेणोपाध्यायेऽप्यविसर्जयति प्रथमतो भवन्ति चत्वारो लघुकाः । ततो वृषभादिक्रमेण प्रायश्चित्तं वर्द्धमानं तावद् द्रष्टव्यं यावत् पर्यन्ते नवममनवस्थाप्यलक्षणं
For Private And Personal Use Only
सूत्र ११
गाथा |२८०७-२८११ गणप्रवेश
सामाचारी
११६६ (A)