________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
षष्ठ उद्देशकः ११६५ (B)
अत्रायं विधि:- प्रथमतः सा प्रवर्तिनी संयत्या भण्यते यथा विसर्जयेमां साध्वीमिति, एवमुक्ता यदि न विसर्जयति तर्हि मासलघु ॥ २८०४ ॥
वसभे य उवज्झाए आयरियकुलेण वावि थेरेण । गणथेरेण गणेण, संघथेरेण संघेण ॥ २८०५॥ भणिया न विसज्जंती लहुयगादी सोहि जाव मूलं तु । तीय य हरिऊण ततो, अण्णो से दिजते उ गणो ॥ २८०६॥
यदा संयत्या भणिताऽपि सा प्रवर्तिनी न विसर्जयति तदा वृषभो गीतार्थः कोऽपि साधुर्गत्वा तामापृच्छति, तत्रापि यदि न विसर्जयत्ति तदा प्रायश्चित्तं चतुर्लघु । ततो यः | साधुरुपाध्यायस्थानं प्राप्तस्तेन सा आपृच्छयते तत्राप्यविसर्जने चतुर्गुरु। ततो यः | साधुराचार्यस्थानं प्राप्तः स तामापृच्छति यदि न विसर्जयति तर्हि तस्याः प्रायश्चित्तं षड्- | लघु। ततः कुलेन कुलस्थविरेण वा सा भणनीया, तत्राऽविसर्जने षड्गुरु । ततो गणेन गणस्थविरेण वा सा प्रज्ञापनीया तथाऽप्यमुत्कलने प्रायश्चित्तं छेदः। तदनन्तरं सङ्घन
गाथा २८००-०६ निर्गन्थ्याः
धर्मोपदेश
कगणे
प्रवेशविधिः
११६५ (B)
For Private And Personal Use Only