________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११६४ (B)
www. kobatirth.org
आभीरी पण्णवित्ताण, गया ते आययट्टिया ।
अह तत्थेतरे पत्ता, निक्खमंति तमुज्जयं ॥ २८०१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आयतो मोक्षस्तत्र स्थिता आयतस्थिता उद्यतविहारिणः संविग्ना इत्यर्थः । ते आभी काञ्चन प्रज्ञाप्यान्यत्र विहारक्रमेण गताः । अथानन्तरं तत्र ग्रामे इतरे पार्श्वस्थादयः प्राप्तास्ते तामुद्यतां निष्क्रामयन्ति सा च पूर्वप्रकारेणासंयमाद्भीता तत्र समाधिं न लभते ॥ २८०१ ॥ दडुं वा सोउं वा, मग्गंती तु पडिच्छिया विहिणा ।
संविग्ग सिक्ख मग्गति, पवित्तिणि आयरियउवज्झं ॥ २८०२ ॥
ततः सा मूलधर्मग्राहकानाचार्यान् मृगयन्ती द्रष्टुं श्रोतुं वा स्नानादिसमवसरणादौ समागतान् संविग्नशिक्षां ग्रहणशिक्षामासेवनाशिक्षां च मार्गयति । अन्यां च प्रवर्त्तिनीमन्यमाचार्यमन्यं चोपाध्यायं सा चैवं मार्गयन्ती विधिना तैः प्रतीच्छिता स्वीकृता कर्त्तव्या । तत्र यत्र दृष्टा: श्रुता वा मूलधर्मग्राहकाः ॥२८०२ ॥
यथा च तैर्विधिना प्रतीच्छनीया तदेतदभिधित्सुराह
For Private And Personal Use Only
܀܀܀
गाथा
२८००-०६ निर्गन्थ्या:
धर्मोपदेश
प्रवेशविधिः
| ११६४ (B)