________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११६४ (A)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परचक्रेण बोधिकादिना, बोधिका म्लेच्छविशेषाः, तदादिना विद्रुते अभिद्रुते राष्ट्र तथा शीघ्रमार्थिकाः प्रणष्टा यथा तासु प्रणष्टासु मध्ये सा एका असहायिका जाता, किता धर्मरहिता बभूव । ततो गणान्तरं दृष्ट्वा पुनः संवेगमापन्ना । शेषमध्वानं प्रतिपन्ना इव वाच्यम् ॥ २७९९ ॥
1
अधुना 'चतुर्थी पुनर्मृगयते शिक्षामिति' व्याख्यानार्थमाह
सोऊण काइ धम्मं, उवसंता परिणया य पव्वज्जं । निक्खंत मंदपुन्ना, सो चेव जहिं तु आरंभा ॥ २८०० ॥
श्रुत्वा काचन संविग्नानां पार्श्वे धर्मं श्रुत्वा उपशान्ता प्रव्रज्यां प्रति परिणता च । सा च निष्क्रान्ता पार्श्वस्थादीनां समीपे ततः सा अचिन्तयत् यस्मादारम्भादसंयमरूपात् भीताऽहं मन्दपुण्या स एव मे समापतित आरम्भो यस्मादत्राहं प्रव्रजिता वर्त्ते इति ॥ २८०० ॥
एतदेवाह
For Private And Personal Use Only
****
गाथा
२८००-०६
निर्गन्ध्या:
धर्मोपदेश
कगणे
प्रवेशविधिः
११६४ (A)