________________
Shri Mahavir Jain Aradhana Kendra
ཝཱ,
व्यवहारसूत्रम्
षष्ठ उद्देशकः
११६३ (A)
܀܀܀܀܀܀܀
܀܀܀܀܀܀
www.kobatirth.org
तत्राध्वनिर्गतादीनां व्याख्यानार्थमाह
गोउम्मुगमादीया, नाया पुव्वमुदाहडा ओमे ।
ओमे असिवे यदुट्ठे, य सत्थे वा तेणऽभिहते ॥ २७९७॥
Acharya Shri Kailassagarsuri Gyanmandir
अवमौदर्येण संयत्यो न संस्तरन्ति तत्र गोज्ञातं पूर्वमुदाहृतं यथा अल्पं गोब्राह्मणं नन्दति, तत एतत् ज्ञातमवधार्य या यत्र संस्तरति सा तत्र गच्छति, अशिवे समुपस्थिते उल्मुकज्ञातमुदाहृतं पूर्वं कल्पाध्ययने, यथा-उल्मुकानि बहूनि मिलितानि ज्वलन्ति एकं द्वे वा न ज्वलतः एवमशिवमपि बहुषु गाढमुपतिष्ठति नैकस्मिन् द्वयोर्वा, ततो वृन्दघाते एकाकी जाता । एताभ्यां कारणाभ्यामध्वानं प्राप्ता । तथा राजद्विष्टेन पूर्वभणितेनैकाकिनी जायते । सार्थे वा स्तेनैरभिहृते एकाकिनी जायते । ततः सा आचार्योपाध्याय प्रवर्तिनीविरहिता निर्द्धर्मीभूता पार्श्वस्थादिविहारं विहृत्य पुनरपि संवेगमापन्ना कञ्चिदाचार्यमुपाध्यायं गणावच्छेदकं एकाकीभवनवा उद्देष्टुमुपस्थिता विज्ञपयति यथा - ' अहं पार्श्वस्थादिव्यवहारात् प्रतिक्रामामि ततो मम सङ्ग्रहं कुरुत यावदाचार्यमुपाध्यायं वाऽऽत्मीयं पश्यामि' एवमन्यगणादागतां तस्मात् स्थानादप्रतिक्राम्य न कल्पते उपस्थापयितुं, नापि षड्विधेन सम्भोगेन यथासम्भवमार्यिकाणां संयतानां च संभोक्तुं,
कारणानि
For Private And Personal Use Only
܀܀܀
गाथा
| २७९५-२७९९
निग्रन्थ्या
RED A