________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
षष्ठ उद्देशक:
११६२ (B)
या प्रमादगणं परिभवन्ती धर्मश्रद्धया गृहवासादिह निर्गता सा कथं सीदति येन सा क्षताचारादि जाता? अत्र सूरिराह-संवासादिभिः सा उद्यच्छन्त्यपि उद्यम कुर्वत्यपि शबलीक्रियते। इयमत्र भावना-सा एकाकित्वेन विहरन्ती गृहस्थादिभिः समं वसन्ती स्वशक्त्यनुसारेणोद्यमं कुर्वत्यपि छलनां प्राप्नोति, आदिशब्दात् गोचरचर्यायां विचारभूमौ वा गता सत्येकाकिनी छलनामाप्नुयादिति ॥ २७९५ ॥
अथ एकाकिनी सा कथं जाता? इत्यत आहअद्धाण निग्गयादी, कप्पट्ठी संभरंती जा बितिया । आगमणदेसभंगे, चउत्थी पुण मग्गए सिक्खं ॥ २७९६॥
अध्वनि अवमौदर्येणाऽशिवेन वा निर्गता अध्वनिर्गता, आदिशब्दात् राजद्विष्टेन वा सार्थे वा स्तेनैरभिहता निर्गतेति परिगृह्यते, एषा प्रथमा । द्वितीया कप्पढेि दुहितरं स्मरन्ती एकाकिनी जाता। तृतीया परचक्रागमनेन देशभङ्गे एकाकिनी। चतुर्थी शिक्षा मृगयमाणा एकाकिनी जाता ॥ २७९६ ॥
गाथा २७९५-२७९९ निग्रन्थ्या
एकाकीभवनकारणानि
११६२ (B)
For Private And Personal Use Only