________________
Shri Mahavir Jain Aradhana Kendra
༔ ཝཱ ,
व्यवहार
उद्देश :
११६० (B)
܀܀܀
www. kobatirth.org
मध्यममुत्कृष्टं च । तत्र जघन्यं प्राकृतं मध्यमं कौटुम्बम्, उत्कृष्टं दाण्डिकम् । यथा त्रिविधं मानुषं दिव्यमपि जघन्यादिभेदभिन्नं त्रिधा, पाशवमपि च त्रिधा जघन्यादिभेदतः, सङ्गीतं व्याख्यातम्, यथा कल्पाध्ययने तथाऽत्रापि व्याख्येयम् । यथा चोक्तमत्रोपधानं प्रायश्चित्तं तदपि न तत् पूर्णमिहापन्नं न वक्तव्यम्, किन्तु वक्तव्यम् । द्वयोर्नञोः प्रकृत्यर्थगमनात् ॥ २७९० ।।
अत्रैवापवादमाह–
बिइयपदे तेगिच्छं, निव्वीइयमाइयं अइकंते ।
ता इमेण विहिणा, जयणाए तत्थ सेवेज्जा ॥ २७९१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चिकित्सां निर्विकृतिकादिकां प्रागुक्तामतिक्रान्ते अस्थाने शब्दश्रवणतो हस्तकर्मकरणतो वा अनुपशाम्यति वेदोदये ततो द्वितीयपदे अपवादपदे अनेन वक्ष्यमाणेन विधिना यतनया सेवेत ॥ २७९१ ॥
तमेव विधिमाह -
For Private And Personal Use Only
**
सू.१० गाथा २७८९-२७९४ एकाकीनिर्ग्रन्थीगणप्रवेशे विधिः
११६० (B)