________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११५५ (A)
www. kobatirth.org
उट्ठविवर्जकैरहं विवर्जितः परिहृत इत्येवमबहुश्रुतो मा बहिर्भावमुपयासीदिति भिन्ने अपवरके न स्थाप्यते किन्तु वसतेरेकस्मिन् प्रदेशे । तत्रापि काष्ठादिना फलकादिरूपेण, तदभावात् भूत्या वा अन्तरं कुर्वन्ति । मा एकैकेन त्वग्दोषेण साधवः सहसा स्पृशेयुः ॥ २७७४ ॥
अस्यन्दमाने त्वग्दोषे विधिविशेषमाह
अगलंते न वक्खारो, लालासेयादिवज्जण तहेव । उस्सास-भास-सयणाऽऽसणादीहि होइ संकंती ॥ २७७५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अगलति अस्यन्दमाने त्वग्दोषे पृथक् वक्षस्कारोऽपवरको न क्रियते । लालास्वेदादीनाम्, आदिशब्दादुच्छ्वास-भाषा-शयनाऽऽसनादिपरिग्रहः, वर्जनं तथैव यथा प्रागभिहितम्। अगलति त्वग्दोषे कस्मादुच्छ्वासादीनां वर्जनम् ? अत आह— उच्छ्वास - भाषा - शयनाऽऽसनादिभिः, आदिशब्दात् पीठ-फलकादिपरिग्रहः, सङ्क्रान्तिर्व्याधेर्भवति ॥ २७७५ ॥
मोत्तूण जल्लपडलं, धरेंति भाणं से काइयाइ गते । सीए व दाउ कप्पं, उवरिमधोयं परिहरति ॥ २७७६॥
For Private And Personal Use Only
गाथा
२७७१-२७७८
सङ्क्रामकरोगे विशेषयतना
११५५ (A)