________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
षष्ठ उद्देशकः ११५३ (B).
चरणतले पादतले त्वग्दोषव्याधिः सङ्क्रामति । तथा तस्य त्वग्दोषव्याधितस्य येनाऽवकाशेन निष्क्रमणं प्रवेशो वा तमवकाशं भूत्या लक्षयेत येन साधवस्तमपि परिहरन्ति । अपरिहरणे अनन्तरोदित एव दोषः ॥ २७६९ ॥ णिती व सो काउ तली कमेसुं, संथारतो दूर असणे वि । मा फासदोसेण कमेज तेसिं, तच्छिक्क वत्थादि व परिहरंति ॥ २७७०॥
स स्यन्दमानत्वग्दोषी क्रमयोः पादयोः तलिके उपानहौ कृत्वा निर्गच्छति प्रविशति वा, योऽपि अस्यन्दमानत्वग्दोषी तस्यापि कायिकीभूमिर्विष्वक् क्रियते न पुनः पृथग् निर्गमप्रवेशस्थानम्। सम्प्रति स्यन्दमानस्याऽस्यन्दमानस्य च स्पर्शविषयां साधारणां यतनामाहअस्यन्दनेऽपि त्वग्दोषे, आस्तां स्यन्दमाने इत्यपिशब्दार्थः। संस्तारको दूरे क्रियते । मा स्पर्शदोषेण तेषां शेषसाधूनां व्याधिः सङ्क्रामेदिति हेतोः। तथा न केवलं दूरे संस्तारक: क्रियते किन्तु तेन त्वग्दोषवता यत् स्पृष्टं वस्त्रादि तत्परिहरन्ति पूर्वोक्तादेव दोषात् । तदेवं प्रस्रवणयतना स्पर्शयतना च सप्रपञ्चोक्ता ॥ २७७०॥
गाथा २७६५-२७७०
ग्लानस्य साराकरणविधिः
साराक
४
१५३ (B)
सम्प्रति लाला-स्वेदयतनामाह
For Private And Personal Use Only