________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
षष्ठ
च प्रस्वेदेन। तथाहि-स्यन्दमानत्वग्दोषवतः प्रस्रवणस्पर्शनेनापि व्याधिरन्यत्र सङ्क्रामति, तथा श्री
गात्रस्पर्शनेन यदि वा तेन व्याधितेन ये परिभुक्ताः पीठफलकादयस्तान् यद्यव्याधित: परिभुङ्क्ते सूत्रम् तदा व्याधिः सङ्क्रामति, तथा लालया सह भोजने व्याधिः सङ्क्रामति । तस्य प्रस्वेदेन
यदि कोऽपि स्पृश्यते तदा तस्यापि व्याधिः सञ्चरति । तत्र च दृष्टान्तो मरुकेण उद्देशकः
सेटुकब्राह्मणेन। तत्कथानकं चावश्यके प्रबन्धतः कथितमिति ततोऽवधार्यम् ॥ २७६८ ॥ ११५३ (AM
साम्प्रतमेतदेव पश्चार्द्ध व्याचिख्यासुः प्रथमतः प्रश्रवणे यतनामाहपासवण अन्न असती, भूतीए लक्खे मा हु दूसियं मोयं । चलणतलेसु कमज्जा, एमेव य निक्खमपवेसा ॥ २७६९॥
तस्य स्यन्दमानत्वग्दोषवतः पृथक् कायिकी भूमिः कर्त्तव्या, अन्यस्या विष्वक्प्रश्रवणभूमेरसति अभावे एकस्या एव कायिक्याभूमेस्तस्य योग्यं पृथक् अवकाशं भूत्या लक्षयति वृषभाः यथा साधवस्तं परिहरन्ति । तथा चाह-मा कोऽपि त्वग्दोषव्याधितस्य दूषितं मोकं प्रस्रवणं पादैराक्रमेत् । आक्रमणे को दोषः? इत्यत आह-आक्रान्ते तस्य प्रस्रवणे |
गाथा २७६५-२७७०
ग्लानस्य साराकरणविधिः
११५३ (A)
For Private And Personal Use Only