________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् षष्ठ
उद्देशकः ११५२ (B)|
गोसे प्रातरिदं पृच्छति–'कीदृशं ते शरीरम्?' इति, तथा 'त्वया किमावश्यकं कृतमकृतं वा?' तथा मध्याह्ने पृच्छति- भैक्षं त्वया लब्धमलब्धं वा? किंवा तव दीयताम् ?' इति। तथा अपराण्हे पृच्छति-'किं तवोपकरणं केनापि त्वया वा प्रेक्षितम् किं वा न प्रेक्षितं? कीदृशं वा ते शरीरम् ?' इति यदि पुनरेवं सारां न करोति किं त्वेवमेव परित्यजति तदा गुरोः प्रायश्चित्तं चत्वारो गुरुकाः। अनि!हणेऽपि यद्यविधिना परिवर्तनं परिपालनं कारयति तदापि चतुर्गुरुकं प्रायश्चित्तम् ॥ २७६६ ॥ २७६७ ॥
आणादिणो य दोसा, विराहणा होतिमेहि ठाणेहिं । पासवण-फास-लाला-सेए मरुएण दिटुंतो ॥ २७६८॥
न केवलं प्रायश्चित्तं किं तु आज्ञादयश्च दोषाः । तथा एभिर्वक्ष्यमाणैः स्थानैर्विराधना * साधूनामात्मविराधना भवति । कैः स्थानैः? इत्याह-प्रश्रवणेन स्पर्शेन लालया स्वेदेन
११५२ (B) १. ला प्रस्सेए मरुयदि ॥
गाथा २७६५-२७७०
ग्लानस्य साराकरणविधिः
For Private And Personal Use Only