SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् षष्ठ | उद्देशकः । ११५१ (A) भिक्षोर्यथावस्थितस्य भावो भिक्षुभावश्चरणं, तदर्थं तस्य चारित्रस्याविराधनार्थं था सामाचारी तस्याः प्रतिजागरणं नाम करणमुभयकालमह्नि रात्रौ च । आचार्योऽपि तस्यैवं भिक्षुभावं प्रतिजाग्रतो गोसे रात्रिकं पृच्छति, दिवसेऽपि भक्तपानादिचिन्तां करोति, विकाले च दैवसिकं पृच्छति, सुखेन वृत्तस्तव दिवस इति। एवमभयकालमाचार्यस्तं प्रतिजागर्ति ।। २७६१।। सम्प्रति नियुक्तिविस्तरःवक्खारे कारणम्मी, निकारण पुव्ववणिया दोसा । किं पुण होज्जा कारण, तद्दोसाई मुणेयव्वा ॥ २७६२॥ वक्खारो नाम एकस्यां वलभ्याम् अभिनिर्वगडो विष्वक् अपवरकस्तस्मिन् कारणे सति वसति। एतद्विषयमिदं सूत्रम्। यदि पुनः कारणमृते विष्वगपवरके वसति तदा पूर्ववर्णिता मिथ्यात्वादयो दोषाः । किं पुनः भवेत् तत्कारणं यद्वशात् पृथगपवरके तिष्ठति? तत आह-त्वग्दोषादीनि त्वग्दोषक्षयव्याध्यादीनि कारणानि ज्ञातव्यानि। तथाहित्वग्दोषिकादिकमाचार्यो यदि निष्काशयति तदा तस्य प्रायश्चित्तं चतुर्गुरुकं, तस्मान्न स निहितव्यः किन्तु पृथगपवरके स्थितः परिपालनीयः ॥ २७६२॥ सूत्र ७ गाथा ४२७५९-२७६४ कारणे पृथग्वासानुज्ञा X/पथा ११५१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy