________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् घष्ठ
उद्देशकः ११५० (B)
सुत्तेणेव उ सुत्तं, जोइज्जइ कारणं तु आसज । संबद्धघरुव्वरए, कप्पति वसियं बहुसुयस्स ॥ २७६०॥
सूत्रेणैव सूत्रं योज्यते सम्बध्यते तद्यथा-अनन्तरसूत्रेणैकाकिनो बहुश्रुतस्य वासो निषिद्धः,अनेन तु सूत्रेणेदं प्रतिपाद्यते कारणमाश्रित्याऽध्वप्रतिपत्त्यादिकं सम्बद्धगृहोद्वरके बहुश्रुतस्य वस्तुं कल्पते इत्येष सूत्रसम्बन्धः ॥२७६० ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या।
अथ ग्रामे वा नगरे वा यावद्राजधान्यामेकवगडायामेकपरिक्षेपायामेकद्वारायामेकनिष्क्रमणप्रवेशायां वसतौ बहुश्रुतस्य बह्वागमस्य भिक्षोर्वस्तुं कल्पते, केवलमुभयकालं भिक्षुभावं प्रतिजाग्रतो भिक्षुभावश्चारित्रं तस्याविराधनार्थं या सामाचारी तां कुर्वत इत्येष सूत्रसक्षेपार्थः ॥ अधुना भाष्यनियुक्तिविस्तरः । तत्र 'भिक्खुभावं पडिजागरणमाणस्सेति' व्याख्यानार्थमाह भाष्यकृत्
चरणं तु भिक्खुभावो, सामायारी य जा तदट्ठाए । पडिजागरणं करणं, उभयो कालं अहोरत्तं ॥ २७६१॥
सूत्र ७
गाथा २७५९-२७६४
कारणे पृथग्वासानुज्ञा
११५० (B)
For Private And Personal Use Only