________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यालेन सर्पादिना दष्टस्य से तस्य को भैषजं करोति? नैव कश्चिदेकाकित्वात् । तथा दीर्घरोगे कृत्याकरणतो विवृद्धि गते स पश्चात् किं करिष्यति? नैव किञ्चित् केवलं मरिष्यतीत्यर्थः ॥ २७५५॥
व्यवहार
सूत्रम् षष्ठ उद्देशकः
शल्यमरणमाह
११४९ (A)
सल्लुद्धरणविसोही, मए य दोसा बहुस्सुए वा वि । सविसेसा अप्पसुए, रक्खंति परोप्परं दो वि ॥ २७५६॥
शल्योद्धरणविशोधिरेकाकिनः शल्योद्धरणाभावस्ततो मृतेऽपि च सशल्ये तस्मिन् दोषाः। तथाहि-सशल्यो यो म्रियते स दीर्घकालं संसारमनुपरिवर्त्तते इति बहुश्रुते चाप्येकाकिनि मते दोषाः । तथाहि-सोऽप्येकाकी मृतो गहिणा बलीवीभ्यां मल्लेन राजकुलेन वा निष्काश्यते तथा वा लोकनिन्दाप्रवृत्तेः प्रवचनव्याघातः। सविसेसा अप्पसुए इति, अल्पश्रुते एकाकिनि सविशेषा दोषाः । तथाहि-बहुश्रुत आलोचनाभिावे सिद्धानामन्तिके आलोचयति, अल्पश्रुतस्त्वमं विधिं न जानातीति सशल्य एव म्रियते, यदि पुनावपि बहुश्रुताऽल्पश्रुतावभिनिर्वगडायां वसतौ परस्परं सम्भूय वसतस्तदा द्वावपि तौ परस्परं रक्षयतः ॥ २७५६ ॥
गाथा ४२७५२-२७५८
एकाकि वसने दोषाः
११४९ (A)
For Private And Personal Use Only