________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः ११४८ (A)
भया आमोसगादीणं, सेजं वयति सारियं । दारं ३। असहायस्स गेलण्णे, को से किच्चं करिस्सइ ? ॥ २७५२॥ दारं ४।
आमोषकादीनां भयात् तस्मिन्नेकाकिनि सति शून्यां शय्यां वसतिं दृष्ट्वा तां सागारिको व्रजति। द्वारगाथायामादिशब्दस्य व्याख्यानं तत्रैव कृतम् । तथा असहायस्य से तस्य ग्लानत्वे सति कः कृत्यं करिष्यति? ॥ २७५२॥
खद्धप्रत्यनीकप्रेरणद्वाराण्याहमंदग्गी भुंजए खद्धं, ऊसढं ति निरंकुसो । दारं ५ । एगो परुट्ठगम्मो य, पेल्ले उब्भामया व णं ॥ २७५३॥ दारं ७।
गाथा
२७५२-२७५८ एकाकी निवारकाऽभावात् निरङ्कशः, ऊसढं ति उत्कृष्टमिति कृत्वा मन्दाग्निः प्रचुरं भुङ्क्ते ||
एकाकि ततो ग्लानत्वादिदोषसम्भवः । तथा एकोऽसहायः प्ररुष्टस्य प्रत्यनीकस्य गम्यो भवति । तथा |
वसने दोषाः उद्भ्रामका नगरादिरक्षका एकाकिनममुं चौरादिरिति कृत्वा नगरादेर्बहिः प्रेरयेयुः ॥ २७५३॥
११४८ (A) १. आमर्शादीनां भयेन- पु. प्रे. ॥
For Private And Personal Use Only