________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
X
श्री
व्यवहारसूत्रम् । षष्ठ
उद्देशकः ११४७ (B)
प्रतिजागरणाभाव:४,तथा एकाकिनो मन्दाग्निर्निवारकाभावात् प्रचुरभक्षणसम्भवः५ तथा च ग्लानत्वादिभावः । तथा एकाकी प्रत्यनीकस्य गम्यो भवति ६। तथा उद्भ्रामका दण्डपाशादयो नगररक्षा एकाकिनं 'चौरो वा हेरिको वा न ज्ञायते कथमन्यथा एकाकी?' इति विचिन्तयन्तो बहिः प्रेरयेयुः । ग्रामान्नगराद्वा बहिर्निष्काशयेयुरिति भाव:७। तथा स्त्रीदोषा एकाकिनो जायन्ते ८ तथा व्यालेन दष्टस्य भैषजाकरणसम्भव:९। रोगस्य च वृद्धिगमनम् १०। तथा सशल्यस्य सतो मरणम् ११ इत्येष द्वारगाथासक्षेपार्थः ॥ २७५० ॥
साम्प्रतमेनामेव विवरीषुः प्रथमतो मिथ्यात्वद्वारं शोधिद्वारं चाहउगाढमप्पसहायं तु, पण्णवेंति कुतित्थिया । दारं १
गाथा समावण्णो विसोहिं च कस्स पासे करिस्सइ?॥ २७५१ ॥ दारं २ । २७४६-२७५१
एकाकिवसने ओगाढमप्यसहायं कुतीर्थिकाः प्रज्ञापयन्ति अतो मिथ्यात्वगमनं तथा समापन्नः || प्रायश्चित्तं कस्य पार्श्वे शोधिं करिष्यति नैव कस्यचित् पार्श्वे, ततः शोध्यभावः ॥ २७५१॥
११४७ (B) सम्प्रति सागारिकद्वारं ग्लानद्वारं चाह
दोषाः
For Private And Personal Use Only