________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
षष्ठ उद्देशकः ११४७ (A)
तदेवमुक्तं प्रसक्तानुप्रसक्तम्, अधुना प्रकृते योजनामाहअसुभोदयनिप्फण्णा, संभवंति बहुविहा । दोसा एगाणियस्सेवं, इमे अन्ने वियाहिया ॥ २७४९॥
अशुभोदयेन अशुभकर्मोदयेन निष्पन्ना अन्तरुपाश्रयस्याभिनिर्वगडायां वसतावेवमेकाकिनो बहुविधा दोषाः। तदेवमन्तरुपाश्रयस्याभिनिर्वगडायां दोषा उक्ताः । सम्प्रति बहिरुपाश्रयस्याभिनिर्वगडायां दोषानाह-इमे वक्ष्यमाणा अन्ये दोषा एकाकिनो व्याख्याताः प्रतिपादिताः॥ २७४९॥
तानेव द्वारगाथया संजिघृक्षुराहमिच्छत्तसोहिरसागारियादि३ गेलण्ण४ खद्धपडिणीए६ । बहिपेल्लणि त्थि८ वाले९, रोगे१० तह सल्लमरणे य११ ॥२७५०॥ दारगाहा॥
एकाकिनो मिथ्यात्वगमनं१,तथा शोधेरभाव:२,तथा सागारिकप्रवेशो वसतौ, आदिशब्दात् चलत्कुट्यां वसतौ कुड्यादिप्रपतनत आत्मविराधनेति परिग्रहः३,तथा ग्लानत्वे
गाथा २७४६-२७५१
एकाकिवसने ४ा दोषाः
११४७ (A)
For Private And Personal Use Only