________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः
११४६ (B)
www. kobatirth.org
विशुद्धस्य भावस्य फलमाह
विसुज्झतेण भावेण, मोहो समवचिज्जइ ।
मोहस्सावचए वावि, भावसुद्धी वियाहिया ॥। २७४७ ॥
विशुद्धयता भावेन लेश्यागतेन मोहो मोहनीयं कर्म समपचीयते हानिमुपगच्छति, मोहस्यापचये वाऽपि भावशुद्धिर्जीवस्य परिणामविशुद्धिर्व्याख्याता प्रतिपादिता या कालक्षेपमृते केवलश्रिया लाभो भवति ॥ २७४७ ।।
Acharya Shri Kailassagarsuri Gyanmandir
'अथ मोहनीयं कर्म उदयप्राप्तं शुभपरिणामेन क्षपयितुं शक्यते किंवा न ?' इति । 'शक्यते' इति ब्रूमः । तथा चाह
उक्कतं जहा तोयं, सीयलेण झविज्जए ।
गदो वा अगदेणं तु, वेरग्गेण तहोदओ || २७४८ ।।
यथा उत्क्वथ्यमानं तोयं शीतलेन तोयेन क्षप्यते । गदो वा अगदेन तथा मोहनीयस्योदयो वैराग्येण क्षप्यते ॥ २७४८ ॥
For Private And Personal Use Only
गाथा
| २७४६-२७५१ एकाकिवसने दोषाः
११४६ (B)