________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् षष्ठ
उद्देशकः ११४६ (A)
कृष्णले श्यापरिणामः । उक्तं च- "क्रमशः स्थितासु लेश्यागतासु जीवस्य भावपरिणतिष्ववपतना [ द्] उत्पतनाद्वा संक्लिश्येद्वा विशुध्येद्वा"[ ] ॥ २७४५ ॥
सम्प्रत्येकैकस्मिन् लेश्यास्थाने परिणामसङ्ख्यातीतत्वं भावयतिभवसंघयणं चेव, ठितिं वाऽऽसज्ज देहिणं । परिणामस्स जाणिज्जा, विवड्डी जस्स जत्तिया ॥ २७४६॥
भव एव संहननं भवसंहननं दृढं भवं देहभवं वाधिकृत्येत्यर्थः। तथा स्थितिं च । जघन्यादिभेदभिन्नामाश्रित्य देहिनां नारकादीनां यस्य परिणामस्य कृष्णलेश्यादिरूपस्य यावती विवृद्धिस्तस्य तावतीं जानीयात्। तथाहि-नारकाणां देवतानां च जघन्यायां स्थितौ | कृष्णलेश्यापरिणामा नानाजीवापेक्षया तरतमभेदेन चिन्त्यमाना असङ्ख्येयाः । एवं समयाधि- कायामपि जघन्यस्थितौ द्विसमयाधिकायामपि जघन्यस्थितावेवं तावद् वाच्यं यावदुत्कृष्टं | स्थितिस्थानम्। एवं कृष्णलेश्यायां परिणामा असङ्ख्यया भवन्ति । एवं नीललेश्या[दि]गतस्य ॥ २७४६ ॥
गाथा २७४६-२७५१ एकाकिवसने दोषाः
११४६ (A)
For Private And Personal Use Only