________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः ११४५ (B)
शुभोऽशुभश्च क्षिप्रमागच्छति अपैति च ॥ २७४४ ॥
एवं शुभादशुभेऽशुभाद्वा शुभे परिणामे कियन्ति सङ्ख्ययाऽध्यवसायस्थानानि? इति चेद् | अत आह
लेस्साठाणे उ एक्कक्के, ठाणा संखमतिच्छिया । किलिटेणेतरेणं वा, जे उ भावेण खुंदती ॥ २७४५॥
एकै कस्मिन् लेश्यास्थाने सङ्ख्यामतिक्रान्तानि सङ्ख्यातीतानि स्थानानि | परिणामस्थानानि भवन्ति यानि क्लिष्टेन संक्लिष्टेन इतरेण विशुद्धेन भावेन [ वा] खुन्दति आस्कन्दति प्राप्नोतीत्यर्थः। अथ कः संक्लिष्टः को वा इतरो भावः? इति चेत् उच्यते-इह कृष्णले श्यापरिणामात् नीलले श्यापरिणामो विशुद्धः, नीलले श्यापरिणामादपि कापोतलेश्यापरिणामो विशद्धः। तस्मादपि तेजोलेश्यापरिणामो विशद्धः। ततोऽपि पद्मलेश्यापरिणामः, ततोऽपि शुक्ललेश्यापरिणामः। तथा शुक्ललेश्यापरिणामात् पद्मलेश्यापरिणामः क्लिष्टः। तस्मादपि पद्मलेश्यापरिणामात् तेजोलेश्यापरिणामः क्लिष्टः । तस्मादपि कापोतलेश्यापरिणामः क्लिष्ट : ततोऽपि नीललेश्यापरिणामः। तस्मादपि
गाथा २७३९-२७४५
मनसः चञ्चलता
वर्णनम्
१४५ (B)
For Private And Personal Use Only