________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
षष्ठ
उद्देशकः
११४५ (A)
यथा अम्बुनाथे समुद्रे अनुबद्धपरम्परा वीचिरुत्पद्यते एवं जीवस्य परिणामः शुभोऽशुभश्चानुबद्धपरम्पराक उपजायते॥ २७४२ ॥
शुभाशुभपरिणामवैचित्र्यमेव दृष्टान्तेन विभावयिषुः कण्टकदृष्टान्तं प्रागुपन्यस्तं भावयतिकण्हगोमी जहा चित्ता, कंटकं वा विचित्तियं । तहेव परिणामस्स, विचित्ता कालकंडया ॥ २७४३॥
कृष्णगोमी कर्णशृगाली यथा सा कृष्णादिभि रेखाभिश्चित्रा विचित्रवर्णा भवति। वृश्चिकस्य महाविषस्य लाङ्गलं कण्टक उच्यते । यथा स कृष्णादिरेखाभिश्चित्रितो नानाप्रकारो भवति तथैव परिणामस्य विचित्राणि कालभेदेन कण्डकान्यसङ्ख्येयस्थानात्मकानि भवन्ति । अथ कथं शुभादशुभे अशुभाद्वा शुभे परिणामे याति ? तत्र लङ्खिकादृष्टान्तमाह
लंखिया जहा खिप्पं, उप्पतित्ता समोयए । परिणामो तहा दुविहो, खिप्पं एति अवेति य ॥ २७४४ ॥
११४५ (A) यथा वा लङ्खिका क्षिप्रमुत्प्लुत्य क्षिप्रमेव समवपतति, तथा परिणामो द्विविधः ।
गाथा २७३९-२७४५
मनसः चञ्चलतावर्णनम्
For Private And Personal Use Only